________________
तस्य तु धर्मज्ञस्य सुतार्थं तप्यमानस्य वंशकरः सुतो न बभूव। सुताई चिन्तयमानस्य तस्य बुद्धिरासीत् । अश्वमेधेन यजामि इति। ततो धर्मात्मा पुरोहितान् अमानयत् तान् पूजयित्वा च श्लक्ष्णं वचनम् अब्रवीत्। मम वै सुतार्थं लालप्यमानस्य सुखं नास्ति। तदर्थं हयमेधेन यक्ष्यामि इति। अनुज्ञातश्च पुरोहितैः स यज्ञमारभत। पुत्रकारणाद् इष्टिं च प्राक्रमत। ततः पावकाद् अद्भुतं भूतं प्रादुरभूत्। दिनकरसदृशं प्रदीप्तं तद्भूतं हस्ते पायसपूर्णपात्रीं धारयन्नब्रवीत्-राजन् ! इदं देवेभ्यः प्राप्तम् । तदिद देवनिर्मितं प्रजाकरं पायसं गृहाण। भार्याभ्यः प्रयच्छ च। तासु प्राप्स्यसि पुत्रान् इति।
तथेति नृपतिः प्रीतः अभिवाद्य तं, प्रविश्य चान्तःपुरं कौशल्यामुवाच-पात्रीयं पायसं गृहाण इति अर्द्धं ततः कौशल्यायै ददौ। अर्द्धस्याई सुमित्रायै। अवशिष्टं व कैकेय्यै ददौ। तत् सर्वाः प्राश्य तेजस्विनो गर्भान् धारयाञ्चक्रुः।
ततो द्वादशे चैत्रे मासे नावमिके तिथौ कौशल्या दिव्यलक्षणं पुत्रं रामम् अजयनत्। कैकेय्या सत्यपराक्रमो भरतो जज्ञे। सुमित्रा च लक्ष्मणशत्रुघ्नौ जनयामास। तदा अयोध्यायां महानुत्सव आसीत् ।
बाल्यात्प्रभृति रामस्य लक्ष्मणः प्रियकरः सुस्निग्धश्च बभूव । तेन विना रामो निन्द्र न लभते । यदा हि रामो हयमारूढो मृगया याति, तदैनं पृष्ठतो लक्ष्मणो धनुः परिपालयन याति। तथैव लक्ष्मणानुजः शत्रुघ्नो भरतस्य पृष्ठतोयाति। यदा च ते सर्वे ज्ञानिन गुणसम्पन्नाः कीर्तिमन्तः सर्वज्ञा अभवन्, तदा पिता दशरथोऽतीव हृष्टः।
अथ राजा तेषां दारक्रियां प्रति चिन्तयामास । मन्त्रिमध्ये चिन्तमानस्य तसं महातेजो विश्वामित्रो मुनिः प्राप्तः। तं पूजयित्वा राजोवाच-अनुग्रहीतोऽहम् । परिवृद्धिमिच्छामि ते कार्यस्य । न विमर्शनमर्हति भवान्। कथयतु भवान्। करिष्यामि तदशेषेण । भवानेव मम दैवतम् । इति श्रुत्वा विश्वामित्र उवाच-सजश्रेष्ठ ! व्रतस्थोऽस्मि। तस्य तु व्रतस्य मारीचसुबाहू नाम द्वौ राक्षसौ कामरूपिणौ विघ्नकरौ। तस्माई व्रतसम्पादनार्थं ज्येष्ठपुत्रो रामो भवतो मे सहायो भवतु। इति।
पाठ 36
- निम्न धातुओं के रूप ‘वद्' धातु के समान ही स्मरण कीजिए।
प्रथम गण, परस्मैपद 1. एज् (कंपने)-कांपना-एजति। 2. कण (आर्तस्वरे)-दुःख के साथ रोना-कणति। 3. कील् (बंधने)-बांधना-कीलति।