________________
कार्ये परसाहाय्यप्रार्थनम् आवश्यकं भवति नर्हि एकपुरुषसाध्याः सकलाः क्रियाः । कोऽपि ” गृहवस्त्रादिकं स्वयमेको" निर्मातुं न प्रभवेत् । किमुत च तत्तत् शिल्पिसंधनिर्मितम् एव सुभगम् ! अतः विपश्चितः परस्परं श्रमान् विभज्य एकैकमेव विषयम् अङ्गीकृत्य, तं सर्वात्मना परिशीलयन्ति । तस्मिन् नैपुण्यं उपगताः च, लोकाऽराधनाय प्रवर्तन्ते । एवं श्रमविभागेन संसारयात्रा सुखकरी भवति ।
( 12 ) कमला - परिचिन्त्यतां परराष्ट्राणाम् उद्योगपद्धतिः । आफलोदयकर्माण उद्यमशीला यूरोपीयाः निजाद्भुतकृत्यैः लोकान् विस्मापयन्ति । सुसंस्कृतं सुजातं च वस्तुजातं निर्मिततां तेषाम् श्रमविभाग एव बीजम् ।
(13) रुक्मिणी - पाणितलस्थे निदर्शने, कुत इयद्दूरम् " ? अस्माकं गृहव्यवस्था एव सूक्ष्मदृष्ट्या विलोक्यताम् । गृहपतिः सकलारम्भमूलं धनम् अर्जयति । तेन च धान्यादि वस्तुजातं क्रीत्वा गृहिण्यै समर्पयति । सा तत्साधु व्यवस्थाप्य, पाकादि च निष्पाद्य सकलं कुटुम्बं सुखयति । सोऽयं जीवनक्रमः श्रमविभागेन एव सुखकरो भवति नान्यथा । विभक्तः खलु श्रमोऽतीव 7 सुसहो भूत्वा महते फलोदयाय कल्पते ।
( 14 ) नर्मदा - स्फुटतरम् अज्ञासिषं श्रमविभागतत्वम् । युवाभ्यां विवृतं च तत् सम्यक् प्रविष्टं मे हृदयम् । अधुना शिरसा धारयामि युवयोः वचः । यावच्छक्यं, तव अर्थसाधने प्रयतिष्ये ।
(15) रुक्मिणी - प्रीतास्मि युवयोः परमादरेण समास - विवरण
1. चिन्ताकुलम् - चिन्तया आकुलम् = चिन्ताकुलम् । 2. कार्यसिद्धिः - कार्यस्य सिद्धिः = कार्यसिद्धिः ।
करनेवाले । (निजाद्भुतकृत्यैर्लोकान् विस्मापयन्ति ) - अपने अद्भुत कामों से दूसरों को आश्चर्य युक्त करते हैं । ( 13 ) ( पाणितलस्थे निदर्शने कुत इयद्दूरम्) - हाथ के तले पर का पदार्थ देखने के लिए इतना दूर क्यों (जाना है) । (सकलारम्भमूलं) संपूर्ण कार्यों के प्रारम्भ में उपयोगी - जिससे सकल कार्य बन सकते हैं । ( पाकादि निष्पाद्य) अन्न पकाकर । (विभक्तः श्रमः सुसह भवति) बांटा हुआ श्रम सहा जा सकता है । (महते फलोदयाय कल्पते) - महान फल प्राप्ति के लिए होता है। ( 14 ) ( स्फुटतरम् अज्ञाषिम् ) अधिक स्पष्टता से जान लिया । (युवाभ्यां विवृतम्) तुम दोनों से समझाया हुआ । (शिरसा धारयामि युवयोर्वचः) शिर से धरती हूं तुम दोनों का भाषण । (तव अर्थसाधने प्रयतिष्ये) तुम्हारा कार्य सिद्ध करने में प्रयत्न करूंगी। ( 15 ) ( प्रीतास्मि युवयोः परमादरेण ) खुश हो गई हूं तुम दोनों के बड़े आदर से ।
114
13. कः+अपि । 14. स्वयं + एकः । 15. विभागः +एव। 16. इयत् + दूरं । 17. श्रमः + अतीव ।