________________
12. यदि त्वं मध्याह्ने त्रिवादनसमये अग्निरथेन चलिष्यसि तर्हि पञ्चवादनसमये अमृतसरं गमिष्यसि - अगर तू दोपहर तीन बजे के समय रेलगाड़ी से चलेगा तो पाँच बजे अमृतसर पहुँचेगा ।
13. तर्हि तदा एव अहं गमिष्यामि - तो तभी मैं जाऊँगा ।
14. यदा त्वं तत्र गमिष्यसि तदा मम पुस्तकम् अपि तत्र नय - जब तू वहाँ जाए तब मेरी पुस्तक भी ले जाना ।
15. गङ्गाजलम् अतीव निर्मलम् अस्ति, अतः तद् एव पातुम् इच्छामि - गंगाजल बहुत ही स्वच्छ है, अतः वही पीना चाहता हूँ
16. रक्षकः द्वारात् बहिः तिष्ठति - पहरेदार दरवाज़े के बाहर खड़ा है ।
134
17. पुरात् बहिः वनम् अस्ति - शहर से बाहर जंगल है।
18. तस्य पुत्रः पाठशालायां पठति-उसका लड़का स्कूल में पढ़ता है । 19. समुद्रे अतीव जलं भवति - समुद्र में बहुत जल होता है 20. त्वं गरलं मा पिब - तू ज़हर न पी ।
I
शब्द
लेखनम्-लिखना । धनिकः - पैसेवाला । अन्यः - दूसरा । वाचनम् - बांचना, पढ़ना । धृत्वा - पकड़कर । विचार्य - विचार करके । उपविश्य - बैठकर । पालितः - पाला हुआ । निक्षिप्य - रखकर । साहित्यम् - सामान। आसनम् - बैठने का स्थान । बहिः - बाहर । यावत्-जब तक । एकः - एक । उक्तवान्- बोला । तावत्-तब तक। प्रारम्भः - आरम्भ । स्वकीयः- अपना । विहस्य - हँसकर । विलोक्य - देखकर । यथापूर्वम् - पहले के समान ।
वानरस्य कथा
एकस्मिन् नगरे केनचिद् धनिकेन एकः वानरः पालितः । सः धनिकः नित्यं वानरस्य समीपे एव उपविश्य लेखनं वाचनं च करोति स्म। एकदा सः धनिकः लेखनस्य साहित्यं तत्र एव निक्षिप्य अन्यं कार्यं कर्तुं बहिः गतः । 'अहम् अपि धनिकवत् लिखामि' इति विचार्य वानरः धनिकस्य आसने उपविश्य एकेन हस्तेन पत्रं गृहीत्वा द्वितीयेन लेखनीं धृत्वा यावत् लेखनस्य प्रारम्भं कृतवान् तावद् धनिकः अपि तत्र आगतः । तं वानरं विलोक्य विहस्य उक्तवान्- 'भोः वानरश्रेष्ठ ! इदं किं करोषि ? कस्मै पत्रं लिखसि ?' इति वानरः अपि शीघ्र स्वकीयस्थानं गत्वा यथापूर्वम् उपविष्टः ।