SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ विधिद्वय श्रीजिनराजिभावे स्यात् केवला विंशतिरिद्धरूपा । युता चतुर्भिश्च चतुर्भिराढ्यं युग्मं समन्तात् शुचिविंशते रिह ॥ ११ ॥ तिर्यग्लोके जिनपजननं तन्महार्थ सुरेशाः स्वर्गादीयुर्निजहितकरं कर्तुमह द्विभूनाम् । जन्मस्नात्रं शिरसि 'विबुधाद्रे'श्व ते पञ्च शैलाः मत्वात्राsधाद् विबुधसहितः पञ्च मेरून्' सुसङ्घः ||१२|| न शाश्वतेष्वेषु जिनालयेषु हित्वाऽहतां तुर्यमवाप्यतेऽन्यत् । नामेति मध्येऽत्र विशालचैत्ये 'चतुर्मुखी शाश्वतनामधेया' ||१३|| जगत्यां जीवाद्याः सततभविना भावनिचया अतोऽर्थः शास्त्राणां विबुधततिभिर्नित्य उदितः । दिशन्तस्तान् भावान् निखिलविदुपाssवेद्य जिनपा मतः शास्त्राणां ते निरूपणचणा अर्थनिचये ॥ १४ ॥ सूत्राणां ग्रथनं तु तद्वचनतश्चक्रुर्गणेशाः समं तत्तीर्थं निखिलाङ्गितारणसह श्रीद्वादशाङ्गात्मकम् । तत्पट्टान् गणधारिणां समजिनवातस्य सम्मन्दिरे ह्यासन्ने विदधौ विधानकुशलः सङ्घा गणेशाङ्किते ॥ १५ ॥ युग्मम् तीर्थमेतदिह पुस्तकावलिं धारयन्नितरथाऽस्ति नैव तत् । पुस्तकानि च चकार 'देवयुक् सद्गणी' प्रमितिधाम सर्वदा ॥ १६ ॥
SR No.032387
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages310
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy