________________
२८४
योऽदत्तागमवाचना मुशमिनां येनावृता आगमा यश्चारोहितवाञ् श्रुतान् वरशिला सत्ताम्रपत्रांस्तथा । ग्रन्था येन परःशताः विरचिता यस्याऽमलः संयमः श्रीआनन्दपयोनिधिर्विजयते पृज्यः स सूरीश्वरः ॥१॥ योऽदादागमवाचना प्रशमिनां येनावृता आगमा ज्ञान यस्य समग्रशास्त्रविषयं चारित्रमत्युज्वलम् । यो राजप्रतिबोधकृद् मुनिवरः सद्धर्म देष्टा सदा श्री आनन्दपयोनिधिविजयते नित्यं स सूरीश्वरः ॥२॥ दत्ता येन शमेशिना मुनिगणायाप्तागमानां श्रुतिः सच्छास्त्रोद्धतिकर्मठः स्थितिकृते शैलेषु तामेषु च । सिद्धाद्रौ सुरते च चैत्ययुगलेऽध्यारोहयच्चागमान् सिद्धथै स्तान्नृपबोधना मुनिपतिः मरीश आनन्दयुक् ॥३॥ आगमाद्धारकर्तार
शैलाणेशप्रबोधकम्। ध्यानस्थ स्वर्गत नौमि सुरिमानन्दसागरम् ॥४॥ योदादागमवाचना शमभृतां सिद्धान्तसत्तत्ववित् सच्छास्त्रोद्दतिकर्मठः स्थितिकृते शैलेषु तामेषु च । सिद्धाद्रौ सुरते च चैत्ययुगलेऽध्यारोहयच्चागमान् आनन्दाब्धिगुरु स्तुवे सुविहित प्रान्ते समाधिस्थितम् ॥५॥ विद्ववृन्दमनोज्ञकाव्यततिभिर्यः स्तूयते सर्वदा भूपेन्द्रप्रतिबोधको गुरुमतिः सिद्धान्तपारङ्गमी । व्याख्याने च विचक्षणः शुभगुणैविख्यातकीर्तिः सुधीरानन्दाब्धिमुनीश्वर गणपति वन्दे महाज्ञानिनम् ॥६॥