________________
२८.
गुरुदेवाष्टकम् ।
प्रणेता-श्रीमाणिक्यसागरसूरीश्वरः आगमोद्धारक ! श्रीमन् ! दिलीपनृपबोधक ! । मुनिचर्यासमासक्त ! आचार्यानन्दसागर ! ॥१॥ गुरो ! त्वं सर्वशास्त्रज्ञ-स्त्वं वादिगजकेसरी । श्री जैनशासनाम्भोधि-चन्द्रमास्त्व चिरं जय ॥२॥ मन्यन्ते गुरुवर्य ! त्वां बुधा बुद्धधा बृहस्पतिम् । गाम्भीर्येण पयाराशिं धैर्येण मन्दराचलम् ॥३॥ गुरो ! सूत्ररहस्यज्ञ ! त्वया सिद्धान्तवाचनाम् । दवा श्रमणवृन्दाय महत्युपकृतिः कृता ॥४॥ अप्रमत्त! सदाऽऽसक्त-शास्त्रसंशोधनादिके । गुरुराज! नमस्तुभ्यं मुनिवृन्दनमस्कृत ! ||५|| प्रावर्तन्त गुरो ! त्वत्तः परार्थापितजीवन ! । नकाः संस्थाः समित्याद्या आगमादिप्रकाशिकाः ॥६॥ गुगे ! तवोपदेशेन दया पर्युषणादिषु । दिलीपसिंहराजेन स्वपुरेषु प्रवर्तिता ॥७॥ गुरो : दढप्रतिज्ञत्वं निःस्पृहत्व च यत् त्वयि । तथा जिनागमज्ञान नान्यत्र क्वापि दृश्यते ॥८॥