________________
२७१
नवनहार्चनमहा-पूजागरचनादिकः । द्वादशान्. दिवसान् यावत् प्रावर्तत प्रमादतः ॥३६॥ युग्मम् प्रत्यहं तत्र स्वधर्मि-वात्सल्यमभवत् तथा ।
प्रभावनादीनि धर्म-कृत्यानि च विशेषतः ॥३७॥ दिवसेऽन्त्ये महास्नात्र-मष्टोत्तरशताह्वयम् ।.
जेमयित्वा जनान् सर्वान् प्रामश्च निधू मीकृतः ॥३८॥ प्रतिष्ठावसरे तत्र भूयांसो मुनयो बराः।
त मह दृष्टुमायाताः श्रावकाच सहस्रशः ॥३९।। बिलाक्य मुदिताः सर्वे प्रशंसन्तो महोत्सवम् ।
अदृष्टपूर्व इत्येष स्वस्वस्थानमयुर्जनाः ॥४॥ इत्युत्सवा महानेष मनुष्यमरणोज्झितः । - निर्विघ्नं पूर्णतां प्रापत् पादलिप्तपुरे बरे ॥४॥ आचार्यानन्दसागर-सरिपट्टधरो मुदा ।
प्रशस्तिमेतामलिखत् सूरिर्माणिक्यसागरः ॥४२॥