________________
२६३
कालोऽनुक्षणमुत्तमार्थ निधने बद्धादरस्तत्र कि स्यात् ते भावि पदं श्रियै इति वचः शास्त्रावलेनों मतम् । आत्मार्थोद्यतधीमतां शिवपद तीर्थ तृतीयेऽभवदारेऽसङ्ख्यतमा गताः शिवपुरं जीवास्तथा नो पुरा ॥५॥ शैलेय्यः प्रतिमाः पुरा न सुलभा चक्रस्वभावे नृपे स्वच्छ। ग्रावचयोऽधुनाऽतिविशदो देशान्तरे प्राप्यते । तन्मां ग्रावसमुच्चये सुविधिनोत्कीर्यात्र चेत् स्थापयेदातीर्थ भविनां मनोरथतति सन्मार्गगां पूरये ॥६॥ बंद्योपदिष्टमतिमिष्टमिवातुरोऽदः श्रुत्वा वचः परपदाप्तिसमुद्यतोऽयम् ।। सङ्घोऽत्र शास्त्रविततेः स्थिरतां चिकीर्षचक्रे सदागमयुत 'जिनमन्दिरं' द्राक् ॥७॥ परो लक्षाञ्छ्लोकान् विशदलिपिनोत्कीर्य विशदे शिलोच्छाये शुभ्रे शिवसुखलभोऽत्रागमततेः। न्यधत्ताशेषाणां हितततिकृते त सुविशदे कृते चैत्येऽशीत्या शतयुतजिना लिविमले ॥८॥ क्रियात् पवित्र निजजीवमाशु भव्यो जनस्त्वित्थमुदारबुद्धया । जिनेशिनामेव पुरस्तदीयाऽऽगमावलीमत्रगतां न्यधत्त ॥९॥ दिव्यानि चैत्यानि पुराप्यशीत्या शतेन युक्तानि जिनेशबिम्बैः। तद्वाणवेदप्रमितानि कृत्वा चतुर्मुखानि व्यदधात् तथाऽत्र ॥१०॥