________________
७०२
नमो पुरिसवरगंधहत्थीणं दृष्टः सदा स्रवति यस्य सुधासमूहो, यस्याई - शुद्धहृदयात् करुणा-प्रपूरः । यस्यानने वहति सौम्य-सरित्-प्रवाहः, हा हन्त ! हस्ति गणिराज! दिवं प्रयातः ॥४॥ येनैकदापि तव वाक् श्रवणीकृता वा, दृष्टं सकृद् तव सुभव्यंमुखारविन्दम्। आजीवनं मनसि भाति छविस्त्वदीया, हा हन्त ! हस्ति-गणिराज! दिवं प्रयातः ।।५।। लब्धा त्वया धवलकीर्तिरतिविशाला, प्राप्तं यशश्च विमलं विशदं विशुद्धम्। कल्पान्तकालमविनाशमखण्डलं च, हा हन्त ! हस्तिगणिराज! दिवं प्रयातः ।।६।। सोढा त्वया समतया परमा हि पीडा, नोच्चारितं निज-मुखेन कदापि किञ्चित् । शान्ता सदा स्मितयुक्ता तववक्त्रमुद्रा, हा हन्त ! हस्ति-गणिराज दिवं प्रयातः ।।७।। श्रीमद्वियोग इह साधु-समाजनिष्ठान, दुःखीकरोति सुतरां सुजनान्सुभक्तान्। शिष्यांस्तथैव सकलान् तव पादलीनान्, हा हन्त ! हस्ति-गणिराज दिवं प्रयातः ।।८॥ श्रद्धांजलि समय॒मां, वीरपुत्रः समिच्छति।
आत्मा ते परमां शान्ति, शीघ्रं प्राप्नोतु शाश्वतीम्॥९॥ (आचार्यप्रवर के समाधिमरण के अनन्तर श्रद्धाञ्जलि रूप में १२ मई १९९१ को जोधपुर में समर्पित)