________________
[७२०]
योगराजनगरमध्ये च, आगत्यैव ततः परम् । मणिविजयपार्वे च, शुद्धदीक्षा च याचिता ॥५४६ संवेगि साधवो जाता:, त्रयोऽपि गुरुसामीपे । बुटेरायस्य सन्नाम, बुद्धिविजयरूपकम् ॥५५०॥ मुक्तिविजयसन्नाम, मूलचन्द्रस्य स्थापितम् । वृद्धिविजयरूपं च, वृद्धिचन्द्रस्य योजितम् ॥५५१॥ शिष्यौ तौ द्वौ च संजातौ बुद्धिविजययोगिनां । परं संवेगतां प्राप्य, हर्षितौ तौ महाशयौ ॥५५२॥ आत्मारामादि पूज्यश्च, पश्चात्पाञ्चालमध्यके । शुद्धधर्मप्रचारश्च, विहितः पुष्कलस्तदा ॥५५३॥ अष्टादशमहाभागः, साधुभिः सह तत्र वै । आत्मारामैश्च पाटानां, त्रोटनं च कृतं महत् ५५४ गुर्जरदेशमध्ये च, आगतास्ते महाशयाः। बुटेरायगुरूणां च, दीक्षां पार्वेऽगृहीत्तदा ॥५५५ शुद्धसंवेगिनो जाताः, परमवैराग्यमूर्तयः । शुद्धधर्मप्रचाराय, गुरूणां ते सहायकाः ॥५५६॥ नीतिविजयपूज्याश्च, क्षान्तिविजयसाधवः । बुद्धिविजयसाधूनां, शिष्याश्च ते समे मताः ॥५५७