________________
योग
अधुना शुभयोगानां, योगो मीलतिसर्वथा । शुभे लग्ने शुभं कार्य, कर्त्तव्यमिति चिन्तितम् ३४० सर्वदेवादिशिष्याणां, मुख्यानां च तदा खलु । स्वाभिप्रायं प्रदश्यैव, स्वकार्यकरणोद्यताः ॥३४१॥ आचार्यपददानं च, तेषां कृतं च तत्क्षणे । आशीर्वादप्रदानं वै, कृतं च सूरिभिस्तदा ॥३४२ वटवृक्षसमायुष्मत्संततिः परिवर्धताम् । शासने सुखपूर्वेण, प्रचारः प्रविधीयताम् ॥३४॥ तत्काले सर्वदेवानां, ख्यातिश्च वटगच्छतः । जैनेषु सर्वदा जाता, पश्चाच वनगच्छतः ॥३४४॥ वटेष्वाचार्यतादानावटगच्छः प्रजायते । समाचायीं न भेदोऽस्ति, निर्ग्रन्थतश्च कश्चन ३४५ अतो नामान्तरं ज्ञेयं, न तु स्वतंत्रगच्छता। इत्येवं सर्व ज्ञातव्वं; जैनशासनवेदिभिः ॥३४६॥ सर्वदेवाख्यसूरीणां, सन्ततिवटवृक्षवत् । प्रशाखादिस्वरूपेण, अतीव परिवर्धते ॥३४७॥ नागेन्द्रादिकमच्छानामबान्तरीय गच्छकाः।