________________
[६८]
योगचंद्रसूरीशपट्टेषु, सामन्तभद्रसूरयः। महाप्रतापसंयुक्ताः जगद्य द्योतकारकाः ॥२६॥ दिगम्परत्वभेदोऽपि, पतितः कालदोषतः । सम्प्रदाय द्वयस्यापि, ते पूज्याः सूरयो मताः ॥२७० तन्निर्मिताश्च सद्ग्रन्थाः, मन्यन्ते चाप्तरूपतः। द्वाभ्यां च सम्प्रदायाभ्यां संशयो नात्र विद्यते ॥ विवादो नैव केषाश्चित्तद् विषये प्रजायते। युक्त्यनुशासनं देवागमस्तोत्रं च सुन्दरम् ॥२७२॥ स्वयम्भस्तोत्ररूपाश्च, ग्रन्थाः सर्वैश्च सम्मताः । सूरीणां वृद्धदेवानां, प्रतिबोधस्य हेतवे ॥२७॥ देवागमीय स्तोत्रं तत्कृतं सामन्तसूरिभिः । दिगम्बराश्च ते सन्ति, इत्युक्तौ न प्रमाणता ॥ प्रमाणाभावतो नैव, तादृग् वाक्यं च मन्यते । प्रमाणविरहेणापि, यदि त्वया निगद्यते ॥२७॥ तदा शशविषाणं च, मन्यतां च स्वच्छन्दतः । कल्याणमन्दिरस्यैव सिद्धसेनदिवाकराः ॥२७॥ श्वेताम्बराश्च कर्तारः, प्रसिद्ध युक्तियुक्ततः। तथाप्यज्ञानदोषेण, ननाटत्वं च घोषितम् ॥२७७॥