________________
wwwww
-प्रदीप अनेकधर्मकार्याणि, कारितानि च सूरिणा। सन्मतितकन्यायावतारादिकाश्च ग्रन्धकाः ॥२६१ सर्वोत्तमाश्च विज्ञेयाः, प्रौढयुक्त्या समन्विताः। तन्नामस्मृतिमात्रेण, पापं च परिनश्यति ॥२६२॥ दक्षिणदेशमध्ये च, सूरीणां स्वर्गवासता। सञाता कालयोगेन, दिवाकरा दिवं गताः ॥२६३ धन्यास्ते सूरयो ज्ञेयाः, जैनधर्मस्य दोपकाः। अद्यावधि च तन्नाममन्त्ररूपेण गीयते ॥२६४॥ चन्द्रगच्छादि गच्छाच्च, नामान्तरस्वरूपतः । चतुरशीतिगच्छाश्च, सञ्जाता वाचनादितः ॥२६५ चन्द्रगच्छादि गच्छाश्च, रूपान्तरेण ते तथा । नामान्तरं स्वरूपेण, विज्ञेया जैनशासने ॥२६६ ॥ निर्ग्रन्थ प्रथमं नाम, द्वितीयं कोटिकं तथा । चन्द्रगच्छस्तृतीयं च, अभिधानं प्ररूपितम् ॥२६७ वनगच्छचतुर्थं च अभिधानं निगद्यते । यतो हि तच्च संजातं, तत्स्वरूपं च लेशतः ॥२६८
१-निर्ग्रन्थ गच्छस्य ।