________________
[६२४
योगईश्वरप्रणिधानस्य, शुद्धत्वं जैनशासने । प्रतिक्रियाऽनुष्ठानस्य, कर्त्तव्यसमये यथा ॥२१२॥ लक्ष्यी कृत्य च शास्त्रं वै तदुपदेशकेश्वरम् । प्रभुहि हृदि संस्थाप्य, कर्त्तव्यं प्रणिधानकम् २१३ अविद्याया समावेशः, मिथ्यात्वे परितिष्ठति । स्थानांगसूत्रशास्त्रेषु, मिथ्यात्वं दशधा मतम् ॥ असाधुषु च साधुत्वं, साधावसाधुता तथा । अजीवे जीवरूपत्वं, जीवेऽजीवस्वरूपता ॥२१॥ अयुक्त युक्तरूपत्वं, युक्तऽयुक्तस्वरूपता । सर्वत्र तादृशी बुद्धिः, मिथ्यात्वपरिपोषिका ॥२१६ प्रोक्ताऽविद्या च मिथ्यात्वस्वरूपा प्रतिपादिता । अस्मिताऽऽरोपरूपा सा, द्विप्रकारा निगद्यते ॥२१७ प्रपञ्च चेतनारोपः, चेतने दृश्यवस्तुनः । आरोपः सोऽपि मिथ्यात्वस्वरूपो जैनदर्शने ॥२१८ अस्मिता चेदहङ्कारः, ममत्ववीजरूपकः । रागद्वेषस्वरूपत्वं, तदा कषायरूपकः ॥२१॥ कदापि म्रियते नैव, सर्वदा जीव्यते मया । सदा मरणभीतिश्च, जीविताऽऽशा च सर्वदा २२०