________________
[२८]
योग
रक्तजाः सूक्ष्म जीवाश्च, समुद्र ताहि योनिगाः॥१३१॥ यथाशक्त्या परित्यागो, जीवानामनुकम्पया । परिग्रहोऽपि हिंसा स्याल्लोभात् किंकिंन जायते ॥ १३२॥ मातरं पितरं बन्धून्, दन्तिते लोभिनो जनाः । माता पुत्रादिकं हन्ति, पुत्रश्च मातरं तथा ॥ १३३॥ माता स्वकं पतिं हन्ति, पिता हन्ति स्वकां स्त्रियम् सर्वत्र कारणेनैव हिंस्य - हिंसक भावना ॥१३४॥ अतः परिग्रह त्यागः, कर्तव्यः सुख-लिप्सया । अनेनैव विचारेण अहिंसां प्राप्नुयुः सदा ॥ १३५॥ अतोऽहिंसात्रतेष्वेव सर्वाण्यन्तर्गतान्यपि । स्वल्पधीनांच बोधाय कथितानि पृथ्क्पृथक् ॥ १३३ ॥ इति शास्त्र - विशारद जैनाचार्य - पूज्यपादविजयधर्मसूरिशिष्येण - न्याय विशारद - न्याय तीर्थं उ० मङ्गल विजयेन विरचिते आईतधर्म्मप्रदीपे योगाङ्ग े यमवर्णन नामा द्वितीय प्रकाशः ॥