________________
-प्रदीप
[ ५६१] अधिकाश्चैव विद्यन्ते, तदा तत्रोपमानता । अत्राधिकगुणाश्चैव, तत्सुखापेक्षया यदि ॥२५॥ विद्यन्ते च तदा तत्र उपमानं विधीयते । संसारे तादृशं वस्तु, कदाचिन्नैव विद्यते ॥२५६॥ उपमाऽभावतश्चैव, अभिधातुं न शक्यते । इति यदुक्तकं तच, सुसत्यं परिमन्यताम् ॥२५७। निरावाधं सुखं शुद्धं, मोक्षे च प्रतिपादितम् । तदर्थं यत्नता चैव, कर्तव्या सर्वदा जनैः ॥२५८॥ संसारे च सुखं नैव, विद्यते हि कदाचन । अतोऽपि तत्र मोहत्वमज्ञानं किं ततः परम् २५१ अनन्तज्ञानदृष्टित्व, सुखवीर्यमयः खलु । प्रमाणसिद्धमोक्षश्च, जैनशासनसम्मतः ॥२६०॥ तत्र श्रद्धा सदा कार्या, तदर्थमुद्यमीयताम् । अन्यत्सर्व परित्यज्य, तत्र यत्नो विधीयताम् २६१ एवं च शुक्लध्यानस्य, स्वरूपं कथितं मया । स्वस्यैव प्रतिबोधाय, परेषां सुखहेतवे ॥२६२॥ इति श्रीशास्त्र-विशारदजैनाचार्य जगद्विख्यातधर्मिजनमान्यशासनरक्षकजङ्गमयुगप्रधान