SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ [५७८] योगदहन्ति निखिलान्येव, घातिकार्माणि तत्क्षणे। ज्ञानदृष्टेश्च ह्यावारं, मोहं तथान्तरायकम् ॥१४६॥ एतानि घातिकर्माणि, विलयं यान्ति तत्क्षणात् । केवलज्ञानदृष्टी च, सम्प्राप्य दुर्लभे ततः ॥१४७॥ योगी पश्यति जानाति, लोकालोकं यथार्थकम् । सर्ववस्तुत्वज्ञानेन सर्वज्ञः परिकथ्यते ॥१४८॥ सर्वस्य दर्शनेनैव, सर्वदर्शी निगद्यते । सत्त्वादित्रिगुणानां च, अभावे निर्गुणो भवेत् ।१४६ ज्ञायिकज्ञानसद्भावे, सगुणः परिकथ्यते । स वीतरागः सर्वज्ञः केवली भगवान् किल ॥१५०॥ यावदायुष्कसद्भावः, तावत्कालपर्यन्तकम् । विहरति क्षमायां च, सुरासुरनरोरगैः ॥१५१॥ प्रणतोऽनन्तसामर्थ्यः, विहरति च तैः सह । भव्यजीवप्रबोधाय, जगन्नाथः सतीर्थपः ॥१५२॥ वाग्ज्योत्स्नयाऽखिलान्येव, भव्यकमलबोधोनि । बोधयति च तत्कालं, मिथ्यात्वं च विनाशयेत् ।१५३ तन्नामस्मृतिमात्रेण, अनादिकालसम्भवम् । दुःखं च भव्यजीवानां, क्षयं याति न संशयः १५४
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy