________________
[२४]
योगउत्तराध्ययनेचेच्छा, आकाशसदृशीमता। न प्राप्तश्चाऽपितस्यान्तः, इच्छाया जगति तथा ॥६६॥ तत्त्यागे ममताऽभावः, जायते निष्परिग्रहः। बाह्याभ्यन्तर भेदेन, द्विविधः परिज्ञायते ॥७॥ धन धान्यादि संत्यागे, कामिनी नां तथैव च । ज्ञयंबाह्य हि नैग्रन्थ्यमाभ्यन्तरं निरुप्यते ॥६॥ कषायाणां च सर्वेषामनन्त दुःख दायिनाम् । सर्वथा त्याग कर्त्तव्ये, आभ्यन्तर व्रतंमतम् ॥६६॥ चिते परिग्रहोयस्य, बहिनि ग्रन्थतावृथा। लोकवञ्चक रूपत्वं, किमर्थं परितन्यते ॥१०॥ त्यक्त्वा ये तृणवद्वाह्य, परिग्रहं कषायजम् । साधुत्वं प्रतिपद्यन्ते,श्लाध्यास्ते द्यु सदामपि॥१०१॥ सर्वतो देशतश्चैव, द्विविधश्चापरिग्रहः। सर्वतो यमिनां ज्ञयः, गृहमेधिषु देशतः ॥१०२॥ सर्वतः सर्व मूर्छायास्त्यागं कर्तुं न शक्यते । त्यागश्च देशतस्तस्य,कर्तव्यो भव भीतिभिः॥१०॥ ईच्छायाः परिमाणन्तु, शुद्धभावेन क्रियते। निष्परिग्रहवत्वं तद्देशतः परिभाषितम् ॥१०४॥