________________
योग
[२२] भक्ति रागस्य संयोगः, भगिन्यादिषु जायते। तस्मान्न मैथुनं तत्र, व्यवहारे निगद्यते ॥७॥ सेवने भजनं भक्तिः , भगिनीषु च सेवनम् । मैथुन लक्षणं तत्र, गतो दोषोऽत्र चिन्त्यताम् ॥८॥ वेद मोहोदयेऽप्येव, संयोगोऽपि विजातिकः । मैथुन लक्षणं ज्ञेयम्, जगत्कल्याणमिच्छुभिः ॥८१॥ दीव्यौदारिक कामानां, कृतानुमतिकारितैः। मनोवाक् काययोगेन, चाष्टादश विभेदकाः ॥८२॥ तादृशं मिथुनत्वंतत्, त्यक्तव्यं मोक्षकांक्षिभिः । सर्वतो ब्रह्मचर्यच, संयमिभिः प्रपाल्यते ॥३॥ परस्त्री त्याग रूपंयत्, देशतो गृहमेधिनाम् । सधवा विधवाश्चैव, स्वस्त्रीभिन्ना परस्त्रियः॥४॥ कन्या साधारिणी चैव, परस्त्री समुदाहृता। तस्यास्त्यागोगृहस्थानां,देशत्यागित्व भावतः ॥८॥ ऐकध्यमैक्यभावेन, द्विविधं द्विविधन थे। द्विविधं त्रिविधेनाऽपि, यथाशत्त्या च गृह्यते ॥८६॥ व्रतानां किल सर्वेषामपवादः प्ररूपितः। ब्रह्म व्रतेऽपवादोन, कथितो ज्ञान भानुभिः ॥८॥