________________
rwrrrrr
-प्रदीप
[५३६] बाह्यकोमलता स्वच्छा, कार्येषु वक्रता सदा । मायानाग्याश्च दंशेन, गुणाढ्यं परिनाशितम् ३६५ तस्य निग्रहकार्याय, स्वान्ते विचारतां कुरु । ऋजुता जांगुली मन्त्रः, पाठसिद्धैश्च वश्यता ॥३६६ लोभमहावनारोहः, तृष्णावल्ल्या विधीयते । खेदपुष्पेन वृद्धित्वं, दुःखफलस्य हेतुका ॥३६७॥ आकरः सर्वदोषाणां, गुणधनापहारकः । व्यसनवल्लिकन्दश्च, लोभपाशः प्रकीर्तितः ॥३६८॥ लोभमेघस्य दायन, पापपङ्कः प्रवर्धते । धर्महंसो रतिं नैव, लभते कुत्रचित्कदा ॥३६६॥ स्वयम्भूरमणानां च, पारं प्राप्नोति कर्हि चित् । तथाऽपि लोभसामुद्रं, पारं प्रात्नोति नो कदा ॥३७० तोषागस्तिमुनीनां च, सागरः शौचरूपकः । येनाञ्जलिसमं मत्वा, प्रपीतस्तेन सर्वथा ॥३७॥ यदा तृष्णात्वलाम्पट्यं , तदा चित्तं तु भ्राम्यति । सन्तोषसेतुबन्धेन, लोभ सागरतां तर ॥३७२॥ धनार्थं गिरिमृत्स्नायै, दुर्ध्यानेनैव भ्राम्यति । अक्षयज्ञानभंडारः, स्वसमीपे न पश्यति ॥३७३॥