________________
- प्रदीप
[ ५२५ ]
अष्टाविंशतिर्भेदाः स्युः सङ्कलने तु सर्वदा ।
मदिरापानसंकाशं मोहनीयं निगद्यते ॥ २४२॥
निगडक्षेपरूपत्वमायुष्ककर्म गीयते । चित्रकारसमं ज्ञेयं, नामकर्मविचित्रकम् ॥ २४३॥ त्र्यधिकं शतमुच्यते ।
गति जात्यादिभेदेन
तेषां व्याख्याप्रकारस्तु, जैनतश्वप्रदीपके ॥ २४४॥ सुघटं भुंभलाकूटसदृशं गोत्रकर्मकम् । भांडागारिक साक्षं, गोत्रकर्म प्रकीर्त्तितम् ॥ २४५॥ दानादिसर्वकार्येषु विघ्नप्रदानरूपकम् । -कोशाध्यक्ष समं तच, अन्तरायं निरूप्यते ॥ २४६॥ ज्ञानावरणपाकेन, ज्ञानशक्तिर्निरुध्यते ।
मतिज्ञानस्य मांद्येन, आत्मनि परितप्यते ॥ २४७॥ दर्शनावारपाकेन, दर्शनं नैव जायते । । वस्तुदर्शन जिज्ञासा, केनापि नैव पूर्यते ॥ २४८ ॥ सातावेदोदयाच्चैव, सुरनरेन्द्रसेवितम् ।
सुखं तु लभते प्राणी, सुखसङ्कल्पमात्रतः ॥ २४६॥ दर्शनमोहकेनैव, सच्छ्रद्धानं विलुप्यते । तल्लोपेन निमज्जन्ति, जीवाश्च भवसागरे ॥ २५० ॥
"