________________
~
~
~~
~
~
[५२४]
योग-- मूलप्रकृतयस्तेषां, कर्मणां चाष्टकीर्तिताः। अष्टपञ्चाशता चैव, शताधिका परिस्फुटा ॥२३३॥ पञ्चभेदेन भिन्नत्वं, मत्यादिज्ञानपञ्चकम् । तदाच्छादनकर्मत्वं, चक्षुः पट्टसमं मतम् ॥२३४॥ ज्ञानावरणनामाख्यमाद्य तु परिकोर्तितम् । यत्सामान्योपयोगत्वं,तद्दर्शनं प्रकोर्तितम् ॥२३॥ तदावारककर्मत्वं, दर्शनावरणं मतम् । निद्रादिपञ्चकं ज्ञेयं, दर्शनघातिमूलतः ॥२३६॥ चक्षुर्दर्शनरोद्ध त्वं, दर्शनोद्गमछेदकम् । प्रतिहारसमाज्ञेया, दर्शनावारकर्मता ॥२३७॥ मधुलिप्तासिधारायाः, समं तु वेदनीयकम् । मधुलेहनस्वादस्य, सदृशं शातवेद्यकम् ॥२३८॥ जिह्वोच्छेदसमं ज्ञेयमसातावेदनीयकम् । सुखदुःखस्वरूपं च, फलं ततो हि प्राप्यते ॥२३६॥ सच्छृद्धानविघातृत्वं, दर्शनमोहमुच्यते । चारित्रनाशकं ज्ञेयं, चारित्रमोहनीयकम् ॥२४०॥ षोडशकं कषायाणां, नोकषायेन युक्तकम् । नवसंख्यं च ज्ञातव्यं, त्रिकदर्शनमोहकम् ॥२४॥