________________
[२०]
योगएकत्राऽसत्यजं पापमन्यत्र सर्व-पापकम् । तौलेनाधो मृषायाति, अन्यदूर्ध्वं च तष्ठिति ॥२॥ अतो मृषा न वक्तव्या, सर्व धर्म सुरक्षता। सर्व भ्रष्टमसत्येन, धर्म कर्म प्रपञ्चकम् ॥६३॥
अस्तेय स्वरूप निरूपणं अदत्तादानमादेयं, किञ्चित्तृणादिकं नहि । त्रियोग करणेनैव. तृतीयं तदव्रतं मतम ॥१४॥ एतद्वतं मुनीनाञ्च, गृहस्थैनैव पाल्यते। अणुव्रतं गृहस्थानां, यथा शत्तया च पालनम् ॥६॥ येन राज्ञां न दण्ड्यःस्याल्लोकेषु नैव निन्दनम् । अस्तेयं तादृशं स्थूल, व्यवहारे निगद्यते ॥६६॥ एतादृशं महत्स्तेयं, नादेयं सद्विचारकैः। परद्रव्यस्य चौर्येण, आत्ता तैः परप्राणता ॥३७॥ मारणे तु क्षणं दुःखं, यावत्पौत्र परम्परा । अदत्तादान कृत्येन, आविर्भावस्त्वशर्मणः ॥६॥ यादृशं दीयते दानं, तादृशं सुखमश्नुते । दुःख दाने प्रहीणत्वं, फलं परत्र भोक्ष्यते ॥६६॥ चौरं सज्जन रूपेणमन्यन्ते नहिकेचन ।