________________
-प्रदीप
[४८१] शास्त्राज्ञा लोपकर्तृत्वे समूहे नैव संघता। किन्त्वस्थिसमुदायः स न तत्र संघता मता ॥२०॥ तीर्थरक्षा छलेनैव अविधिः परिस्थाप्यते ॥ तदान्तेऽविधिमात्रत्वं शिष्यते इति मन्यते ॥२०॥ शास्त्रविधिक्रियालोपः सर्वथैव प्रजायते ॥ तल्लोपे तीर्थनाशः स्यात् सर्वानर्थं ततो भवेत् २०२ एकत्र तीर्थरक्षा स्यादन्यत्र तीर्थनाशनम् । द्वयीकार्यप्रसङ्ग च, यद्युक्तं तद्विधीयताम् ॥२०॥ सर्वोच्छेदस्तु तीर्थाना, विनाशे परिजल्पिते ।। तीर्थनाशो यथा न स्यात्तथाविधं वितन्यताम् २०४॥ अविधिपक्षपातेन, शास्त्रोक्तविधिनाशनम् । ततोऽनिष्टफलं चैव, दृष्टान्तेन प्रदर्श्यते ॥२०॥ स्वयं मृतस्तु एकः स्यादन्यः केनापि मारितः । तद् द्वयोश्चैव मर्त्तव्ये, विशेष वद कीदृशम् ॥२०६॥ शुद्धविधिगवेष च, सद्भावो हृदि सत्यपि । स्थानादियोगकर्तव्ये, शक्तिर्येषां च नो,यदा ॥२०७ शासनस्यानुरागश्चेद्विधिपक्षगवेषणे । सरलाशयता स्वान्ते, तदा न निष्फला क्रिया ॥२०८
३१