________________
[ ४६० ]
योग
मुद्रा तु शाम्भवी तत्र, मन्तव्या शिवशासने । शिवेन साधिता यस्मात्ततः, शाम्भवी कथ्यते । १७ । पञ्चाङ्गा नियमादीनि प्रोक्तानि बहिरंगतः । त्रीण्येव चान्तरङ्गानि, योगाङ्गानि भवन्ति वै ॥ १८॥ बाह्य चाभ्यन्तरे चैव, स्थूलसूक्ष्मविभाग के । कुत्रचित् ध्येयस्थाने च, चित्तस्य स्थिरबन्धनम् ॥ १६ ॥ धारणा सैव ज्ञातव्या, धारणां वै चिकीर्षता । जैनेतयग्रन्थेषु, धारणरूपता मता ॥ २० ॥ आद्ययोगत्रयाणां च पञ्चानां प्राप्तिता यतः । साधकैर्धारणाभ्यासे, साफल्यं परिप्राप्यते ॥२१॥ धारणायाः स्वरूपं तु वस्तुगत्या विचार्यते । योगदृष्टिक्रमेणैव, धारणा योगधारणा ॥२२॥ कीदृशोऽत्राधिकारी, स्थान्मादृशां ज्ञानहेतवे । कया रीत्या च कर्त्तव्या, तत्सर्वं प्रणिगद्यते ||२३| चाञ्चल्यरहितो ज्ञेयः, रोगेभ्यो रहितस्तथा । नैष्ठयैः सर्वथा मुक्तः, स्थिर मानसिकः सदा ||२४|| वर्णादिशुभयुक्तः स्यात् प्रसन्नास्यं च सर्वदा । हृदि सरलता नित्यं गुणान्वेषणतत्परः ॥ २५॥
1
"