________________
-प्रदीप
[४५६] चित्तैकाग्रे च कर्तव्ये, धारणा प्रणिगद्यते । धारणाभ्यासद्वारेण, चित्तवृत्तिः स्थिरा भवेत् ॥८॥ मुद्राभ्यासोऽपि तस्मै मा कर्तव्यः तत्र सम्मतः। नासिकाग्रविभागे च, मनःस्थिरीकृते सति ॥६॥ अगोचरी तु मुद्रा स्याद्धारणासूपयोगिनी । नासाग्रभागतश्चैव, चतुरंगुलके पदे ॥१०॥ स्वान्तस्थैर्ये च कर्त्तव्ये, मुद्रां तु भूचरी मत आज्ञाचक्रे च स्वान्तस्य, स्थिरीकारे च चाचरी ॥११॥ आज्ञाचक्रे च स्वान्तस्य, स्थिरीकारे च दृष्टीनाम् । समस्थलेऽधिकाधिक्याद्धस्तद्वयस्य चान्तरे ॥१२॥ आन्तरे चातिन्यूने वै वितस्तेर्नाधिके सति । मानसानीतवस्तूनां, कल्पनायां स्थिरीकृते ॥१३॥ मुद्रा च शाम्भवी ज्ञेया, स्वस्थस्वकीयलक्ष्यके । अलक्ष्यं च परित्यज्य, लक्ष्ये चित्तप्रदानके ॥१४॥ बाह्योपकरणानां च, अपेक्षा नैव विद्यते । एतादृशे च कर्त्तव्ये, यज्जातं तन्निगद्यते ॥१५॥ परा शीघ्रं तु पश्यन्ती, रूपं धृत्वा च मध्यमा। वैखर्या वस्तुतत्त्वार्थे, शब्दैकत्वं वितन्यते ॥१६॥