________________
[१०]
योग
मुक्तिः शुद्धस्वरूपा वै, जैनशासनसम्मता ॥२६॥ योगिभिः शर्मसंवेद्य, परेषां श्रुतिगोचरम् । उपमाया अभावेन, व्यक्तं वक्तुं न शक्यते ॥३०॥ समं नृपेण रंकस्य, न क्वचिदुपमीयते । मोक्षशम्र्माधिकं सुखं, यत्र स्यात्तत्र मन्यते ॥ ३१ ॥ तादृशं शर्मसंसारे, नास्त्युपमीयते कथम् ? विद्यमानश्च तच्छ वक्तु ं शक्यं न मानवेः ॥ ३२ ॥ सम्यग्ज्ञानक्रियासाध्यं, सुखं मुक्तेर्मनीषिभिः । तदर्थं क्रियतां यत्न- श्चान्यद्ध शिखोपम् ||३३|| पदार्थ सामान्यलक्षणम्
ध्रौव्योत्पादव्ययेनऽपि, युक्तं तत्त्वं निगद्यते । एतल्लक्षण- निमुक्तं तत्त्वं नास्ति जगत्रये ॥३४॥ पूर्वपर्य्यायनाशेन, रूपान्तरोद्भवस्तथा ।
"
ܬ
अन्वयिद्रव्ययुक्तेन, उत्पादः स उदाहृतः ॥ ३५॥ अन्वयाऽप्रच्युतत्वेन पूर्वरूपवियोजनम् । जैनशासनवेद्यश्च, विनाशः परिभाषितः ॥ ३६ ॥ धौव्यं नित्यत्वरूपं हि, लक्षणेनैव लक्ष्यते । त्रिभिरेभिरसमायुक्तः पदार्थः परिकीर्तितः ॥३७॥