________________
-प्रदीप
पुं-स्त्री-लिङ्गसमायुक्ताः, कृत्रिमाश्च नपुंसकाः। सर्वे ते मुक्तिगन्तारः, रागादिरहिता यदा ॥२१॥ चारित्र मुक्तिहेतुश्च, सम्यक्त्व-ज्ञानशालि च । तादृशं विद्यते ह्यषां,गच्छेयु! शिवं कथम् ॥२२॥ यदि कारणसर्वस्वं, मुक्तेर्नाग्न्यश्च मन्यते । तदा नग्नास्तु गच्छन्ति, मुक्तिं रागसमन्विताः ॥२३॥ रागादि रहितत्वं चेन्मुक्तेः कारणमीष्यते । तदा नग्ना अनग्ना वा,कथं मुक्ति न प्राप्नुयुः? ॥२४॥ तस्मान्नाशाम्बरे मुक्तिनं च श्वेताम्बरे मता। रागादिरहिते मुक्ति-रिति सर्व व्यवस्थितम् ॥२५॥ ज्ञानादिगुणहीनत्वं, मुक्तावपि यदीष्यते । तदा च तादृशी मुक्तिः पाषाणान्नातिरिच्यते॥२६॥ अतो गुणविशेषाणां, विच्छेदो नहि सम्मतः । विशेषाणां गुणानां वै, आविर्भावो विशेषतः ॥२७॥
अथ संक्षेपतः पदार्थविचारःमुक्तिः क्षणिकवादे न, तत्त्वाख्यानं विचार्यताम् । मुक्तिः क्षणिकरूपा चेत्, क्षणनाशेन नश्यति ॥२८॥ अतो ज्ञानादियुक्ता सा, सहिता वै सुखादिभिः।