________________
[४९४]
योगज्ञानं हृदि च जायेत, प्राणायामविधापने । तत्र चित्ते स्थिरे जाते वायोःक मण्डले गतिः॥१२॥ कुत्र सङ्गमवैश्रामो, नाडी च कीदृशी भवेत् । इत्यादि सर्ववार्तानां, ज्ञानं च सुलभं भवेत् ॥३३॥ नासिका विवरे भौम, वारुण वायव्ये तथा । आग्नेयकाभिधानानि, मन्यते मण्डलानि च ॥६४॥ मण्डले तत्र भौमं च, पृथिव्या बीजपूर्णकम् । वजचिह्नन संयुक्तं, तप्त सुवर्णविम्बकम् ॥६५॥ वारुणाक्षरलाञ्छितं, चन्द्रसमानकान्तिकम् । अमृतनिझरैः सान्द्र, ज्ञेयं वारुणमण्डलम् ॥६६॥ स्निग्धसाचनमंकाशमनसदृशकान्तिकम् । अत्यन्तवृत्तबिन्दुना युक्तं दुर्लक्ष्यवायुना ॥१७॥ आक्रान्तं चञ्चलं चैव ज्ञेयं वायव्यमण्डलम् । चतुर्थमण्डलस्यापि, स्वरूपं प्रतिपाद्यते ॥३८॥ ऊर्ध्वज्वालासमायुक्त भयंकरं त्रिकोनकम् । स्वस्तिकेनैव संयुक्त पुल्लिंगसमपिङ्गलम् ॥६६॥ तथा तद् बीजसंयुक्तं ज्ञेयकाग्नेयमण्डलम् । एतानि मण्डलान्येवं, ज्ञातव्यानि मनीषिभिः ॥७॥