________________
-प्रदीप
[ ३८१] एकैकेन्द्रिय द्वारेण, मधुपमीनहस्तिनः । पतङ्गहरिणाश्चैव, प्राणान् जहति सत्वरम् ॥३२२॥ पञ्चेन्द्रियसमासक्ताः, रासलीला विधायकाः । धर्माभिधानमात्रेण, अधर्म पोषयन्ति ते ॥३२३॥ यथा देवी समीपे च, धर्माभिधानमात्रतः। जन्तु-बलि प्रदानेन, तथाऽत्र परिभाव्यताम् ॥३२४॥ यदि प्रभुषु भक्तिश्चेद्वराग्य जनकं तदा । गीतगानं च कर्त्तव्यं, सर्वदा सुसमाधिना ॥३२॥ अध्यात्मभावना यत्र, भवभयनिवारिणी । जायते तादृशं गीतं,गेयं तु सर्वदा मतम् ॥३२६॥ इन्द्रियविषयासक्ताः, कामिनः सुखवामिनः । चक्रिणो ब्रह्मदत्ताश्च, रावणादि नृपास्तथा॥३२७॥ परस्त्रीलम्पटाः केचिद्यवना-भवपोषकाः। विगता ऋद्धयस्तेऽपि, याताश्च नरकावनिं ॥३२८॥ कुष्ट विनष्ट देहा वै, प्रमेहैः पूतिगन्धिकाः । दुःखदौर्भाग्यसंयुक्ताः, लुण्टाकाः पापपोषकाः ।३२६ १-~-यथा देवीभक्ता अजा बलिदानेनानर्थ कुर्वन्ति तथाऽत्र
परिभाव्यताम् ।