________________
-प्रदीप
[ ३५७] ततोऽपि सूक्ष्मभावेन, त्यागस्तोषे निगद्यते । नियमांगे च सन्तोषः, अतोऽधिकस्वरूपतः ॥११॥ सर्वथा देशभेदौ द्वौ, पञ्चमे स्वीकृतौ मतौ। सर्वथा यस्य सन्तोषः, तस्य महाव्रतं मतम् ॥१२॥ देशतः यस्य सन्तोषः, अणुव्रतं च तस्य वै। यमाख्य प्रथमांगेतु, भेदौ द्वौ परिदर्शितौ ॥१२१॥ नियमाख्यद्वितीयांगे, द्वौ भेदौ नैव तिष्टतः । यथा मत्या समाधानमतोऽपि गदितं मया ॥१२२॥ सर्वोत्तमस्य सौख्यस्य, प्राप्तिर्यतः प्रजायते । स सन्तोषो विज्ञातव्यः, कथितो ज्ञानभानुभिः॥१२३ देवेन्द्राणां नरेन्द्राणां, जनैर्यत्सुख सम्मतम् । सन्तोषि नरसिंहानां, अग्रे तत्तुच्छमात्रकम् ॥१२४ अतः सर्वविभावानां, भावना परित्यज्यताम् । एक एवहि सन्तोषः, हृत्पटे च निवेश्यताम् ॥१२५ श्रद्धाहीनं कथं ज्ञानं, सर्वज्ञ शासने मतम् । श्रद्धाज्ञाने चसन्तोषात्प्राप्यते ते च दुष्करे ॥१२६॥
२--पञ्चमेव्रते यथारव्ये ।