________________
-प्रदीप
[ ३५५ ] एतादृशां कथां चैव, श्रवणे दुःखदायिका। सुखमतो न कुत्राऽपि, यथा सन्तोषिणां सदा॥१०१॥ वनवासनिवासाना, क्षमायां शायिनां च वै। भिक्षामात्रोपजीव्यानां,महात्मनां सुखं यथा॥१०२॥ सन्तोषात्परिजायेत, तादृशं न हि कुत्रचित् । सुखलेशश्च विद्यत, सर्वत्र परिभाव्यताम् ॥१०॥ सन्तोषश्च धृतो येन, सर्वैश्च पूज्यते नरैः। नृदेवेन्द्रश्च सद्भावैः वन्दितः स महात्मभिः ॥१०४॥ येषां स्वान्ते च सन्तोषः, निवासस्तन्यते सदा। पूजनीयः स सर्वत्र, कर्तव्यो नैव संशयः ॥१०॥ तृष्णा स्वान्तपटे चैव, बहिश्च साधुता वृथा। कंचक्याश्च परित्यागे,यथा सर्पो न निर्विषः॥१०६ तडागपालिसन्नष्टे, नश्यति सलिलं यथा । तथा परिग्रहत्यागे, कर्मरजो विनश्यति ॥१०७॥ बाह्याम्यन्तरमूर्छा च, त्यक्ता येन महात्मना । जगत्त्रयी च तत्पार्वे, सेवायां परितिष्ठति ॥१०॥ यथाऽऽकाशं प्रभातुं वै, दैवशक्त्या समीहते। तथापि ममतायाश्च, पारं प्राप्तुं न शक्यते ॥१०६