________________
* नमो नमः श्रीप्रभुधर्मसूरये *
आर्हत धर्म प्रदीपः ।
( योग प्रदीपः )
-:*:*:*:
प्रथम प्रकाशः
॥ मङ्गलाचरणम् ॥
सम्मेतशैलशिखरे - समता - रसेन,
योगावरोधनमितं प्रभुपार्श्वनाथैः ।
तीर्थंकरैर पर कैमुनिपुङ्गवैश्च,
लब्धं सनातन सुखं खलु तान्प्रवन्दे ॥ १॥ वन्दे श्रीपार्श्वदेवेशं, सम्मेतशिखरे स्थितम् । वन्दितं वै त्रिलोकैश्च, जगदुद्धारकारकम् ||२|| पावापुय्र्याश्च निर्वाणं, प्राप्त येन सुखावहम् । श्री वीरस्वामिनं वन्दे, त्रिलोकीजनपूजितम् ॥३॥ गौतमाच गणाधीशैः, मुनिपुङ्गवनायकैः । त्रिपदीं प्राप्य वै वीरात्, रचितं दृष्टिवादकम् ॥४॥