________________
[२२]
योगस्वेच्छाचार्य सुराणां च, महोपद्रवकारिणाम् । ताहगीश्वरवादश्च, खण्ड्यता मादशैजैनैः ॥१३०॥ कथं कृतञ्च निर्माणं, न ततः परमात्मता। स्वस्थितिं प्रतिषेद्धारं, ज्ञात्वा निर्माप्यते कथम्॥१३१॥ अतो नहि स सर्वज्ञः, दुष्टानां दण्डने सति । भक्तानां परित्राणे च, रागद्वेषस्य मुख्यता॥१३२॥ इमे दुष्टा अतो दण्ड्याः , वातव्या न कदाचन । त्रातव्या भक्तकाश्चैव,न दण्ड्यास्ते कदाचन ॥१३३॥ अयं निजः परो वेति, गणना लघुचेतसाम् । उदारचरितानाच, वसुधैव कुटुम्बकम् ॥१३४॥ अज्ञानां पक्षपातश्च, तादृशो नैव विद्यते । सर्वज्ञस्य कथं तर्हि, पक्षपातो महान्भवेत् ॥१३॥ इमे दुष्टा इमे भक्ताः, इति वाग्मोह सूचिका । रागद्वेषसमायुक्तं, मन्यते चेश्वरं कथम् ॥ स्व स्व कर्मसमाधीना रागद्बषसमन्विता । स्वस्व कर्मफलानाञ्च, भोक्तारः प्रतिपादिताः॥१३७॥ इमे मम परे चैव इति मनसि धार्यताम् ॥१३८॥ तवेश्वरो न सर्वज्ञः, किन्तु स पामरो जनः ।