________________
[१९२]
योगजायते युगपज्ज्ञानं, कालविलम्बता न हि ॥१२४॥ तथा सार्वोऽपि सम्पूर्णपदार्थानां विलोकनम् । एकस्मिन् समयेनैव करोति नात्र संशयः ॥१२५॥ यथा सकलशास्त्रार्थः, स्वभ्यस्तः प्रतिभासते । मनस्येकक्षणेनैव, तथाऽनन्त प्रवेदनम् ॥१२६॥
शंकरादिषु सर्वज्ञनिषेधवर्णनम् सर्वज्ञः वितरागो न, शङ्करब्रह्मविष्णवः । कामक्रोधादि संयुक्ताः, हिंसादिभावपोषकाः॥१२७ स्वाङ्क स्त्रियं समादाय, गलहस्तप्रदायकाः। अवस्थां कामभोगीयां, सूचयन्ति च सर्वदा ।१२८। केनापि सजनेनैव, स्वस्त्रो स्वाङ्क न धार्यते । सर्वजनसमक्षेषु, तेषां च का विडम्बना ॥१२६॥ लज्जा कापि च स्वान्ते चेत्पामरजनसादृशी। कार्यश्च कामरागादि सूचकं च करोति किम्॥१३०॥ ततस्ते न हि सर्वज्ञाः, वीतरागा न कर्हिचित् । असभ्यकार्यकर्तव्ये, भवेयुरीश्वराः कथम् ॥१३॥