________________
[१८८]
योग
आनयाब्राह्मणत्वं हि, उक्ते तु क्षत्रियस्य च आनयनं मनुष्यस्य, भिन्नस्य तस्य सदृशः ॥ ८८ ॥ न तु गवादि जन्तूनां चानयनं प्रकथ्यते । तथा ब्राह्मणभिन्नानां क्षत्रियानयनं मतम् ॥८६॥ तथा सर्वज्ञसिद्धिस्तु, सुजाता निश्चयात्मिका । अनुमानस्य शंकायां, प्रत्युत्तरं विधीयते ॥ ६० ॥ किलाप्रमाणिकानाश्च अर्थानां हेतुरुच्यते ।
"
सामान्यवक्तृतायां वा, वैपरीत्येन चाथवा ॥६२॥ पक्षत्रयेषु चाद्यावै, असिद्धः प्रणिगद्यते । स यो भवति सर्वज्ञः, अप्रामाण्यश्च नो वदेत् ॥ ६३ ॥ सती वेश्या भवेन्नैव, वहाँ च शीतता नहि । सर्वज्ञः नो भवेद्वक्ता, तथा विरूद्धवस्तुनः ॥ ६४॥ स्वीकारे युग्मपक्षस्य, भावार्थ एव जायते । सर्वज्ञत्वाद्विरुद्धार्थं, समर्थनं करोति न ॥ ६५ ॥ अतः सार्वश्च नो मेने, इति हास्यास्पदं वचः । स्वीकारे नेत्रपक्षस्य, सर्वज्ञो नो प्रवक्तृतः ॥ ६६ ॥
इति वचो हि नो सम्यग् हेतौ स्याद्वभिचारिता ।
"
वक्तृता चैव सर्वज्ञे, साध्यञ्च तत्र नास्ति वै ॥६७॥