________________
[१८४]
सर्वज्ञस्यापि तत्रैव, उपलम्भो न जायते । तस्य किं कारणस्यैव, कार्य्यस्यैव तथैव च ॥५२॥ एवं प्रश्नत्रयी चैव जायते चानुमान के ।
,
स्वीकारे आद्यपक्षस्य प्रश्नद्वयी च तत्र वै ॥ ५३ ॥ तवैकस्योपलम्भो न सर्वज्ञस्य प्रजायते । जगति वा सर्वजीवस्य इत्याशंका भवेत्सदा ॥ ५४ ॥ स्वीकारे आद्यपक्षस्य, भावार्थस्तु प्रजायते । सर्वज्ञ गोचरस्यैव, अनुभवस्तवापि नो ॥ ५५ ॥ इत्येवं कथ्यमाने तु, हेतौ स्याद् व्यभिचारिता । अन्यजीवस्य वै चेतोऽनुभवस्तव नो भवेत् ॥५६॥ इति कथं निगद्येत, अन्यत्रानुभवो नहि । अन्यस्य मानसे सर्वज्ञानुभवो न विद्यते ॥ ५७ ॥
योग
कस्यचिद्वस्तुतत्त्वस्यानुभवाभावतस्तव ।
तद्वस्तु सर्वथा नैव, इति वक्तुं न शक्यते ॥ ५८ ॥ सार्वानुमत्यभावेन, एकस्य तव सर्वदा । सर्वज्ञः संसृतौ नास्ति इति मिथ्या वचो मतम् ॥ ५६ ॥ सर्वजीवस्य सर्वज्ञानुभवाभावतोऽपि च । सर्वज्ञः संसृतौ नास्ति, एवं कथञ्च कथ्यते ॥ ६० ॥