________________
-प्रदीप
[१७१] ये जना दुःखमुत्पाद्य, परेषां कारणं विना। धु तादि व्यसनद्वारा,तुष्यन्ति धनलाभतः ॥२६॥ स हर्ष इति विज्ञेयः, षडेते वैरिणोमताः । अन्तरंगारिरूपाणां, कर्तव्या त्यागतामता ॥२६॥
___वशीकृतेन्द्रियस्वरूपं वशीकृतेन्द्रियग्रामो, गृहिधर्माय कल्पते । एतद्गुणविहीनास्तु,धर्म योग्या नहि कदा ॥२६॥ इन्द्रियग्राममर्यादी, कृतो येन महात्मना । वशीकृतेन्द्रिय ग्रामो,धर्मयोग्योगृही मतः॥३०॥ परस्त्री सर्वथा त्यागी, स्वस्त्रीसंतोषधारकाः। वशीकृतेन्द्रियस्तोऽपि, ज्ञातव्यः सर्वदा गृही॥३०॥ सर्वथेन्द्रियग्रामस्य, साधूनां त्यागिता मता। देशतः त्यागिता ज्ञेया, गृहमेधिषु भावतः ॥३०२॥ पञ्चत्रिंशद् गुणा एते, सम्पूर्णाश्च भवन्ति वै। तदा तेषां परिपूर्णे, धर्मयोग्यस्य पूर्णता ॥३०॥ न्यूनत्वे न्यूनता ज्ञेया, संपूर्णेषु च पूर्णता । धर्मबीजोति योग्यं च, क्षेत्रंज्ञेयं महात्मभिः॥३०४॥