SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ [१७० ] योगतेषां परिहृतिः कार्या, सर्वदा सुखमिच्छता। अन्तरङ्गारिभिर्ग्रस्ताः, ते कथं सुखकांक्षिणः ॥२८॥ परापरगृहीतेषु, स्त्रीषु रत्यभिलाषिता। स काम इति विज्ञेयः,त्यक्तव्यःसच सर्वदा॥२६॥ स्वरपरकष्टमज्ञात्वा, आन्तरप्रीतिनाशकः । स्वात्मनि क्रियतेकोपः,स क्रोधः परिकीर्तितः॥२६१॥ देयवस्तु समीपस्थे, ग्राहके च समागते । तृष्णा तरलचित्तेन, किश्चिदपि न दीयते ॥२६२। ज्ञेयो लोभकषायःस, कथ्यतेऽन्य प्रकारतः । विना कारणमन्यस्य, वस्तुनोऽनीतिपूर्विका ॥२६३॥ ग्रहणेच्छा प्रजायेत, स लोभः परिभाषितः । कारणं सर्वपापानां, गुणानां नाशको मतः ॥२६४॥ परप्रतारणं यच्च, आग्रहेण न माननम् । आग्रहः सर्व कार्येषु स मानः परिकीर्तितः ॥२६॥ प्रोक्त योगशास्त्रे जातिलाभकुलैश्वर्य बलरूप तपः श्रुतैः । कुर्वन् मदं पुनस्तानि, होनानि लभते जनः ॥२६६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy