________________
[१६८]
योगलज्जाहीनाः मनुष्यास्तु, अकार्यकार्यतत्पराः। अत्यल्पस्वार्थ लाभाय, त्यजन्ति सर्वसज्जनान् ॥२७५
लज्जा मुणौघ जननी जननीमिवा-,मत्यन्तशुद्धहृदयामनुवर्तमानाः। तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनोन पुनः प्रतिज्ञाम् ॥२७६॥
दयालुत्वनिरूपणं दुःखिनां दुःखनाशाय, तेषां सुखित्व प्राप्तये । सर्वदा यत्नकर्तारः, जगति ते दयालवः ॥२७॥ अनुकम्पा निरूप्ये च, स्वरूपं कीर्तितं तथा । तया सह य संयुक्तः, सदयः"परिभाषितः॥२७॥ अक्रूरः शमतासेवी, सौम्य गुणी स कथ्यते। करोति कस्य नोद्वगं, सर्वेषां शर्मवाञ्छति ॥२७॥
रस्वरूपनिरूपणं क्रूरा उद्वेग कर्तारः, त्यजन्ति स्वपरान्नपि । स्वभाव शान्ति राहित्या,शीघ्रमकार्यकारिणः।२८०॥ पुण्योदयेन सौम्यत्वं पापैश्च क्रूरता भवेत् । क्रूरताऽत: प्रहातव्या,आदर्तव्या च सौम्यता॥२८॥