________________
-प्रदीप
[१५७ ] धम्माथी परिषेव्येते, यदा कामविनाशतः। गृहिणामधिकारे तु, गृहस्थाऽभावता भवेत् ॥१८॥ अतः परस्पराबाधः, यत्र स्यात्करणं हि तत् । अन्यथा करणे तत्र, दोषापत्तिर्भवेत् सदा ॥१८॥ नाशौ वैस्त्रीधनादीनां, कदाचिदैवयोगतः। धर्मरक्षातदाकार्या, धर्मःसर्वस्व कारणम्॥१६॥ स्वान्ते धर्मधनं यस्य, तस्य सर्व समागतम् । हृदि धर्मधनं नास्ति, तस्य सर्व निरर्थकम् ॥१६१॥ त्रिवर्गसाधनं सम्यक्, गृहस्थानां सुसंमतम् । मोक्षश्चैव मुमूक्षणामन्येषां न कदाचन ॥१२॥ यथायोग्याऽतिथौ साधौ, दोनेषु प्रतिपत्तिकृत् । धर्म योग्यः स बोधव्यः,अन्येतु नामधारिणः॥१६॥
अतिथि स्वरूपं तिथि पर्वादिकं सर्व, त्यक्तं येन महात्मना । अतिथिं तं विजानीयादन्यमभ्यागतं विदुः ॥१४॥
साधु स्वरूपं महाव्रतधरा धीराः, भिक्षामात्रोपजीविनः । सामयिकस्थ धर्मोपदेशका गुरवोमताः ॥१६॥