________________
wwwwwwwwwwwwwwwwammarrrrrrow
-प्रदीप अजीर्णलक्षणे ज्ञाते तत्कालं भोजनं त्यजेत् । शरीरजं विकारञ्च, जठराग्निस्तु शामयेत् ॥१७॥ पाक्षिक उपवासो वै, धर्मशास्त्र उदाहृतः । स्वास्थ्याथै यदि कर्तव्यः,तदापिविग्रहे सुखम्॥१७२॥ वैद्य रजीर्णरक्षार्थमायुर्वेद विरेचनम् अमुत्र परलोकेषु, अहितार्थ विरेचनम् ॥१७३॥ उभयलोकसौख्याय, उपवासो निरूपितः । उपवासो ह्यतःकार्यः, यतोऽजीर्णस्य रक्षणम्॥१७॥ विरेचने शरीरादौ, जायते परिवर्तनम् । क्वचिद्वायुप्रकोपःस्यात्,नाड़ीचशिथिलाभवेत्॥१७॥ पक्षभक्षितचान्नानामुपवासे प्रपक्वता। मनो निर्मलतामेति, भगवद्भजने रुचिः ॥१७६॥ अनालस्यमवैकारः, शरीरे स्वस्थता सदा। उपवासोऽप्यतःश्रेष्टः, न तु विरेचनं कदा ॥१७७॥ किश्चिन्यूनोदरं कार्य, प्रचारार्थ नभस्वताम् । क्षुधागर्तप्रपूराय, कल्प्यं षड् भागकं मतम् ॥१७८॥ आह्वारेण त्रिभागं तु, द्विभागं भ्रियते जलैः। तन्नियमाऽनुसारेण, दुःखं नो वर्तने भवेत् ॥१७॥