________________
॥ अष्टम प्रकाशः ॥
मार्गानुसारि गुणवर्णनं
"
कृष्यते चात्मक्षेत्रं च मार्गानुसारिभिर्हलैः । तदा सम्यक्त्व बीजस्य, वपनं जायते सदा ॥ १ ॥ बीजावापे हलं मुख्यं, कारणं प्रणिगद्यते । अतो मार्गानुसारित्वमवश्यमेव दर्श्यते ॥२॥ धर्ममार्गानुगन्तव्ये, मता मार्गानुसारिता । कदा तादृगवस्था च प्राप्यते इति दर्श्यते ॥३॥ पञ्चत्रिंशच्च भेदेन, न्यायसम्पन्नतादितः । स्वरूपं तस्य वक्तव्यं श्रूयतां धर्म्मभावतः ॥४॥
न्यायसंपन्नविभवस्वरूपं
स्वामिमित्रादि द्रोहाच्च, वश्वस्तानां प्रतारणात् । चौर्यादश्वासदर्थानां परित्यागश्च सर्वथा ॥५॥ स्वसवर्णानुकूल्येन, सद् व्यापारे प्रवर्तनम् । अर्थार्जनस्य चोपायः, स न्यायः प्रणिगद्यते ॥६॥