________________
सा
-प्रदीप
[११] भावसंलेखना ज्ञेया, भाववृद्धि प्रकुर्वता। कर्तव्या ज्ञानिभिः सर्वैः, द्वयी संलेखना तथा ॥७॥ संलेखनात्मघातेषु, भिन्नता प्रतिभाति का। प्राणघातस्तु सर्वत्र, विद्यते च तयोर्द्वयोः ॥८॥ रागद्वेषौ विनिर्मुच्य, धृत्वा निर्ममतां किल। भावप्राणप्रशुध्यर्थ, द्रव्यप्राणान्विमुञ्चति ॥६॥ ध्यानारूढः सदैव स्यात्समता सर्ववस्तुषु । न स्वीयं परकीयञ्च, जगति सर्वथा मतम् ॥१०॥ द्वादशवर्षपर्यन्तं, मरणान्तिकलेखनाम् । आलोच्य स्वीयषोधेन, आपृच्छ्य ज्ञानिनं तथा॥११॥ तादृशमस्ति यद्यायुः, संलेखनां करोति सः । युज्यते करणं नैव, ज्ञानाभावे च तादृशी ॥१२॥ स्वपरेषां सुलाभाय, यदि शक्तिश्च विद्यते। तापकारता कार्या, इत्येवं भावना सदा॥१३॥ असारस्य शरीरस्य, नश्वरशीलरूपतः। ज्ञानेन तपसा पातः, आत्मघातो न कथ्यते ॥१४॥ अतोविचार्य वक्तव्यं, आत्मघातः क्रियात्मकः । द्वयोः स्वरूपमज्ञात्वा, अन्यद्वक्तुंन युज्यते ॥१५॥