________________
॥ सप्तम प्रकाशः ॥
संलेखनास्वरूप वर्णनं संलेखना शिवादाने, समर्था मलशोधिका । संलेखना सुखप्राप्त्यै, परमं साधनं मतम् ॥१॥ कषायविग्रहादीनां, तद्भवमृत्यु कारणे । यथार्थ तनुकारित्वे, मारणान्तिकलेखना ॥२॥ द्विविधा सा च विज्ञया, द्रव्यभावप्रभेदतः। तयोर्द्व योः स्वरूपञ्च, अनुक्रमेण प्रोच्यते ॥३॥ धातुभ्यो विषयोन्मादः, कथितः पूर्वसूरिभिः । आहारादिकहेयेन, तस्य शोषणता मता ॥४॥ द्रव्यसंलेखना ज्ञेया, संलेखनां चिकीर्षता । भावसंलेखनारूपं, कथ्यते शास्त्रयोगतः॥५॥ रागद्वेष कषायाणां, समतापरिणामा । धर्मध्यानप्रभावेन, जनेन संनिरुध्यते ॥६॥ -शरीरादीनां २-संलेखना चोप युज्यते ३-वृत्तिः