________________
[११४]
योगज्ञेया नादरणीयाश्च, दोषप्रवृद्धिहेतुकाः । पाहि चातिचारास्ते, धर्मार्थिभिः प्रयत्नतः॥२४॥ मिथ्याऽभ्याख्यानरहस्याभ्याख्याने कूटलेखनम् । ग्यासापहारसाकार मंत्रभेदा द्वितीयके ॥२५॥ पापोपदेशनं चैव, अन्यस्योन्मार्ग प्रेरणम् । मिथ्योपदेशनं ज्ञेयं, द्वितीये प्रथमो मतः ॥२६॥ गुह्यप्रकाशकत्वेन, रहस्यसत्यभाषणम् । अभ्याख्यानं हि चैकान्ते, द्वितीयश्चातिचारकः॥२७॥ अनालोच्य प्रवक्तव्यं, चौरो वा पारदारिकः । एवं प्रकारवादित्वं, तृतीयश्च द्वितीयके ॥२८॥ अन्यसदृशकारश्च, दूल मुद्रा विधापनम् । परप्रयोगताऽऽधीनं, अन्येनाऽनुक्तवाक्त्वतः॥२६॥ लेखस्य कारकत्वेन, अतिचारस्य सेवनाद् । चतुर्थश्चातिचारः स्याद्, जैनधर्माऽनुसारतः ॥३०॥ विश्वासागतजीवानां, वंचनं नैक भेदतः। अन्यपार्वे समागत्य, विश्वस्तस्य प्रकाशनम्॥३१॥ विश्वस्तमंत्रभेदाऽऽख्यः, अतिचारश्च पंचमे । एते पंचतिचारश्च, द्वितीयस्मिन् व्रतेमताः ॥३२॥