________________
[७०]
__ योगअन्यत्राप्यन्यनिन्दाच, कर्तव्या न कदाचन । पौषधधारिभिस्तर्हि, किमर्थं सा विधीयते ॥१४॥ परनिन्दा महापापं, नीचगोत्रप्रदायिनी। परनिन्दाप्रभावेन, जायते खल्वधोगतिः ॥६॥ अतोनिन्दा न कर्तव्या,यस्यकस्यापि जन्तुनः। स्वाध्यायध्यानताकार्या, पौषधेगुणकांक्षिणा ॥६६॥ अतोऽत्र पोषधेरैव, प्रमादो नहि कश्चन । कर्तव्यः शुभ-भावेन, धर्म ध्यानं विधीयताम्॥१७॥ आनन्दकामदेवेन, पोषधं शुभभावतः । कृतं तथैव कर्तव्यं, श्रावकैः सुसमाधितः ॥१८॥ अनुक्ताः करणं तत्र, गंठस्याद्या अभिग्रहाः। आगतास्तत्प्रभेदाश्च, देशावकाशिके व्रते ॥६॥
चतुर्थशिक्षाबतम् अतिथिसंविभागस्य, करणं द्वादशव्रतम् । मुनीनां प्रतिलाभेन, पौषधस्य विचारणे ॥ १०॥ विज्ञप्तिरन्नपानार्था, क्रियताम्ब यु पाश्रये । सद्भक्त्या गृहमानीय, समीपे वस्तुढौकनम् ॥१०॥ मुनिह्णाति यद्वस्तु, चारित्रपरिपुष्टये ।