________________
ज्येष्ठामरस्य सुभार्या, ह्यनुपमेति नामिका द्वितीया हठीचन्द्रस्य, त्वजवालीसदाह्वया ।।१३।। तृतीया हेमचन्द्रस्य, शान्तेति नामिका स्मृता । चतुर्थी कर्पूरस्यास्ति, 'जीवी'ति नामधारिका ।।१४।। महायुद्धे हि सञ्जाते, सर्वे देशं समागताः 1 एकोनविंशतिशता-धिकेऽष्टनवते समे ।।१५।।
।
।।१७।।
I
।।१८।।
I
।।२०।।
माघशुक्ले षष्ठीदिने, 'जीवी' नाम्नीं तु कन्यकाम् । कर्पूरस्तु पर्यणयत्, पित्राग्रहवशंवदः ।।१६।। भावाभिधपुरे सर्वे, भ्रातरः समवस्थिताः कर्पूरोऽध्यापनार्थं तु, पादलिप्तपुरं गतः श्रेयस्करयुते जैने, मण्डले समवस्थितः सूक्ष्मतत्त्वप्रबोधिन्यां, शालायां ज्ञानपाठकः द्विसहस्रे समे जातः, कर्पूरस्य सुपुत्रकः I भाद्रशुक्लदशम्यां हि, छबीलेति सुनामकः ।।१९।। स्वल्पायुर्भोगं कृत्वा, पादलिप्ते दिवं गतः राधाकृष्णदशम्यां हि, एकाधिद्विसहस्रके ततः परं हि सञ्जाता, पुत्र्योऽष्टौ क्रमतः खलु । शान्तरससमापन्ना, गाम्भीर्यादिगुणान्विताः ।।२१।। प्रथमा प्रवीणानाम्नी, द्वितीया चन्द्रिका स्मृता । तृतीयोषाभिधाना हि चतुर्थी कीर्तिनामिका ।। २२ ।। पञ्चमी नयना रम्या, षष्ठी मीतेति नामिका । सप्तम्यारतिसन्नामा, लताऽष्टमी सदाह्वया ।। २३ ।। प्रवीणा परिणायिता, नवनीतकुमारकम् । त्रयः पुत्रास्तयोर्जाताः, प्रथमः केतनो मतः ।।२४।। द्वितीयस्तु हिमांशुर्यः, शिरोऽर्तिव्याधिबाधितः । धर्मपथ्यादनं प्राप्य, पादलिप्ते दिवं गतः ‘जयेश' इति नामा च, तृतीयो बुद्धिबन्धुरः । चतुर्थी पुत्रीका जाता, ऊर्मीति शुभनामिका ।।२६।। चन्द्रिका परिणायिता, रजनीकान्तकुमारकम् । पुत्रस्तयोर्हि सञ्जातो, राजनेति सुनामकः ।।२७।।
।।२५।।