________________
(पण्डितवर्य श्रीकपूरचंदजी कृत)
आत्मकथा-द्वात्रिंशिका श्रीमत्पार्श्वजिनं नत्वा, त्रापजग्राममण्डनम् । स्वकीयां हि कथां कुर्वे, केवलं स्मृतिहेतवे ।।१।। आत्मीयकथाकरणे, कश्चिद् दोषो न वर्तते । परकीयकथाकरणे, क्वचिद् दोषः प्रजायते ।।२।। त्रापजपुरके रम्ये, “वारै या”न्वयदीपकः । 'रणछोड' इति नामा, दयालस्य सुपुत्रकः ।।३।। तस्य भार्या हि सजाता, 'समरते'ति नामिका । आत्मधर्मरता नित्यं, लज्जादिगुणशालिनी ।।४।। तपोधर्मानुरक्ता या,_जिनधर्मपरायणा । सुतीर्थासेवने सक्ता, सामायिकव्रते रता ।।५।। तयोः पुत्रा हि चत्वारः, प्रथमोऽमरचन्द्रकः । द्वितीयो हि हठीचन्द्र-स्तृतीयो हेमचन्द्रकः ।।६।। चतुर्थस्तु हि कर्पूरः, सद्ज्ञानाध्ययने रतः । एवंविधैः सुतैर्युतौ, कालं गमयतः सदा ।।७।। पुत्र्यो जाताश्चतस्रो हि, प्रथमा 'प्रेमिका'ह्वया । द्वितीया 'रत्निका' नाम, ‘चम्पा'नाम्नी तृतीयका ।।८।। 'रंभा'नाम्नी चतुर्थी हि, सर्वा धर्मसमन्विताः । जिनधर्मरता नित्यं, प्रेमी-चम्पे दिवं गते ।।९।। व्यवहारिज्ञानं प्राप्य, कलिकातापुरीं गताः । धार्मिकाध्ययनं कर्तुं, महिशानां तु कर्पूरः ।।१०।। यशोविजयसंस्कृत-पाठशालास्थितस्तु यः । धर्मतत्त्वं पठितोऽभूत्, संस्कृतादिसमन्वितम् ।।११।। कलिकातापुरि सर्वे, भ्रातरः समवस्थिताः । वाणिज्यार्थं रता नित्यं, स्व-स्व-धर्मसमन्विताः ।।१२।।