________________
मस्यौपशमिकसम्यक्त्वलाभ इति, आह चउवसामगसेढिगयस्स होइ उवसामिअं तु सम्मत्तं । जो वा अकयतिपुञ्जी अखवियमिच्छो लहइ सम्मं ॥ खीणम्मि उदिन्नम्मी अणुदिज्जंते य सेसमिच्छत्ते । अंतोमुहुत्तकालं उवसमसम्मं लहइ जीवो ॥ [विशेषाव० ५२९-५३०] त्ति ।
अन्तर्मुहूर्त्तमात्रकालत्वादेवास्य प्रतिपातित्वम् । यच्चानन्तानुबन्ध्युदये औपशमिकसम्यक्त्वात् प्रतिपततः सास्वादनमुच्यते तदौपशमिकमेव, तदपि च प्रतिपात्येव, जघन्यतः समयमात्रत्वादुत्कृष्टतस्तु षडावलिकामानत्वादस्येति, तथा इह यदस्य मिथ्यादर्शनदलिकमुदीर्णं तदुपक्षीणं यच्चानुदीर्णं तदुपशान्तम्, उपशान्तं नाम विष्कम्भितोदयमपनीतमिथ्यास्वभावं च, तदिह क्षयोपशमस्वभावमनुभूयमानं क्षायोपशमिकमित्युच्यते । नन्वौपशमिकेऽपि क्षयश्चोपशमश्च तथेहापीति कोऽनयोर्विशेषः ?, उच्यते, अयमेव हि विशेष: यदिह वेद्यते दलिकं न तत्र, इह हि क्षायोपशमिके पूर्वशमितमनुसमयमुदेति वेद्यते क्षीयते च, औपशमिके तूदयविष्कम्भणमात्रमेव, आह चमिच्छत्तं जमुइन्नं तं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं वेइज्जंतं खओवसमं ॥ [विशेषाव० ५३२] ति ।
एतदपि जघन्यतोऽन्तर्मुहूर्त्तस्थितिकत्वादुत्कर्षतः षट्षष्टिसागरोपमस्थितिकत्वाच्च प्रतिपातीति । यदपि च क्षपकस्य सम्यग्दर्शनदलिकचरमपुद्गलानुभवनरूपं वेदकमित्युच्यते तदपि क्षायोपशमिकभेदत्वात् प्रतिपात्येवेति । तथा मिथ्यात्व-सम्यग्मिथ्यात्वसम्यक्त्वमोहनीयक्षयात् क्षायिकमिति, आह च
खीणे दंसणमोहे तिविहम्मि वि भवनियाणभूयम्मि । निप्पच्चवायमउलं सम्मत्तं खाइयं होइ ॥ [ ] त्ति ।। इदं तु क्षायिकत्वादेवाप्रतिपाति, अत एव सिद्धत्वेऽप्यनुवर्तत इति । मिच्छादसणे इत्यादि, अभिग्रहः कुमतपरिग्रहः स यत्रास्ति तदभिग्रहिकम्, तद्विपरीतम् अनभिग्रहिकमिति । अभिग्गहिएत्यादि, अभिग्रहिकमिथ्यादर्शनं सपर्यवसितं सपर्यवसानं सम्यक्त्वप्राप्तौ, अपर्यवसितमभव्यस्य सम्यक्त्वाप्राप्तेः, तच्च मिथ्यात्वमात्रमप्यतीतकालनयानुवृत्त्याऽभिग्रहिकमिति व्यपदिश्यते, अनभिग्रहिकं भव्यस्य